भुवन मण्डले नवयुगमुदयतु सदा विवेकानन्दमयम् ।
सुविवेकमयं स्वानन्दमयम् ॥प॥
सुविवेकमयं स्वानन्दमयम् ॥प॥
तमोमयं जन जीवन मधुना निष्क्रियताऽलस्य ग्रस्तम् ।
रजोमयमिदं किंवा बहुधा क्रोध लोभमोहाभिहतम् ।
भक्तिज्ञानकर्मविज्ञानैः भवतु सात्त्विकोद्योतमयम् ॥१॥

वह्निवायुजल बल विवर्धकं पाञ्चभौतिकं विज्ञानम् ।
सलिलनिधितलं गगनमण्डलं करतलफलमिव कुर्वाणम् ।
दीक्षुविकीर्णं मनुजकुलमिदं घटयतुचैक कुटुम्बमयम् ॥२॥

सगुणाकारं ह्यगुणाकारं एकाकारमनेकाकारम् ।
भजन्ति एते भजन्तु देवम् स्वस्वनिष्ठया विमत्सरम् ।
विश्वधर्ममिममुदारभावं प्रवर्धयतु सौहार्दमयम् ॥३॥

जीवे जीवे शिवस्वरूपं सदा भावयतु सेवायाम् ।
श्रीमदूर्जितं महामानवं समर्चयतु निजपूजायाम् ।
चरतु मानवोऽयं सुहितकरं धर्मं सेवात्यागमयं ॥४॥